(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.247. अध्यायः 247
Mahabharata - Vana Parva - Chapter Topics
चित्रसेनेनार्जुनंप्रति दुर्योधनबन्धने कारणाभिधानपूर्वकं युधिष्ठिरसमीपगमनम् ॥ 1 ॥ युधिष्ठिरेण गन्धर्वैर्दुर्योधनादीनां बन्धाद्विमोचनम् ॥ 2 ॥ ततो दुर्योधनेन स्वपुरंप्रति प्रस्थानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-247-0x(2605)(25551)
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्।
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥ 3-247-1(25552)
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे।
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥ 3-247-2(25553)
चित्रसेन उवाच। 3-247-3x(2606)
विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः।
इन्द्रेण धार्तराष्ट्रस्य सकर्णस्य धनंजय ॥ 3-247-3(25554)
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत्।
समस्थो विषमस्थांस्तान्द्रक्ष्यामीत्यनवस्थितान् ॥ 3-247-4(25555)
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम्।
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः ॥ 3-247-5(25556)
गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय।
धनंजयश्च ते रक्ष्यः रसह भ्रातृभिराहवे ॥ 3-247-6(25557)
स च प्रियः सखा तुभ्यं शिष्यश् तव पाण्डवः।
वचनाद्देवराजस् ततोऽस्मीहागतो द्रुतम् ॥ 3-247-7(25558)
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम्।
नेष्याम्येनं कदुरात्मानं पाकशासनशासनात् ॥ 3-247-8(25559)
अर्जुन उवाच। 3-247-9x(2607)
उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः।
धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ॥ 3-247-9(25560)
चित्रसेन उवाच। 3-247-10x(2608)
पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति।
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय ॥ 3-247-10(25561)
नेदं चिकीर्षितं तस् कुन्तीपुत्रो युधिष्ठिरः।
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥ 3-247-11(25562)
वैशम्पायन उवाच। 3-247-12x(2609)
ते सर्व एव राजनमभिजग्मुर्युधिष्ठिरम्।
अभिगम्य च तत्सर्वं शशंसुस्तस्य चेष्टितम् ॥ 3-247-12(25563)
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा।
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥ 3-247-13(25564)
`चित्रसेनस्तदा वाक्यमुवाच प्रौढया गिरा।
मुञ्चध्वंसानुजामात्यं सदारं च सुयोधनम् ॥ 3-247-14(25565)
गन्धर्वास्तु वचः श्रुत्वा चित्रसेनस्य वै द्रुतम्।
राजानं मोचयामासुर्बद्धं निगडबन्धनैः ॥ 3-247-15(25566)
सदारं सानुगामात्यं बालजालमयेन ये।
लुछन्तश्चापि ते सर्वे युधिष्ठिरसमीपतः ॥ 3-247-16(25567)
पतिता लज्जिताश्चैव तस्थुश्चाधोमुखास्तदा।
युधिष्ठिरोपि दयया तान्समीक्ष्य तथागतान् ॥ 3-247-17(25568)
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः।
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥ 3-247-18(25569)
उपकारो मसांस्तात कृतोऽयं मम खेचर।
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥ 3-247-19(25570)
आज्ञापयध्वमिष्टानि प्रीतं मां दर्शनेन वः।
प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम् ॥ 3-247-20(25571)
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता।
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥ 3-247-21(25572)
`देवलोकं ततो गत्वा गन्धर्वैः सहितस्तदा।
न्यवेदयच्च तत्सर्वं चित्रसेनः शतक्रतोः' ॥ 3-247-22(25573)
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत्।
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥ 3-247-23(25574)
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः।
कृत्वा च रदुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥ 3-247-24(25575)
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः।
बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः ॥ 3-247-25(25576)
ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा।
युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत् ॥ 3-247-26(25577)
रमा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्।
न हि साहसकर्तारः सुखमेघन्ति भारत ॥ 3-247-27(25578)
स्वस्तिमान्सहितः सर्वैर्ब्रातृभिः कुरुनन्दन।
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥ 3-247-28(25579)
वैशम्पायन उवाच। 3-247-29x(2610)
पाण्डवेनाभ्यनुज्ञानो राजा दुर्योधनस्तदा।
अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः।
विदीर्यमाणो व्रीडावाञ्जगाम नगरं प्रति ॥ 3-247-29(25580)
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः।
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥ 3-247-30(25581)
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः।
तथा द्वैतवने तस्मिन्विजहार मुदा युतः ॥ 3-247-31(25582)

इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-247-10 प्रलब्धा वञ्चकः ॥ 3-247-11 इदं मदुक्तं समस्थो विषमस्थांस्तान् द्रक्ष्यामीति ॥ 3-247-17 युधिष्ठिरोपीति। गन्धर्वान्प्रत्युवाचेति शेषः ॥ 3-247-28 वैमनस्यं वैरं केनचित्सह मा कृथाः मा कुरु ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.